(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

Aadiparv (Mahabharat) - आदिपर्व (महाभारत)


॥ श्रीः ॥
1.151. अध्यायः 151
Mahabharata - Adi Parva - Chapter Topics
यौवराज्ये युधिष्ठिरस्याभिषेकः॥ 1 ॥ भीमसेनस्य बलरामाद्गदायुद्धशिक्षणम्॥ 2 ॥ द्रोणेनार्जुनस्य ब्रह्मशिरोस्त्रविषये नियमकथनम्॥ 3 ॥ भीमार्जुनदिग्विजयेन धृतराष्ट्रचिन्ता॥ 4 ॥
Mahabharata - Adi Parva - Chapter Text

वैशम्पायन उवाच। 1-151-0x(894)(6875)
`धृतराष्ट्रस्तु राजन्द्रे यदा कौरवनन्दनम्।
युधिष्ठिरं विजानन्वै समर्थं राज्यरक्षणे॥ 1-151-1(6876)
यौवराज्याभिषेकार्थममन्त्रयत मन्त्रिभिः।
ते तु बुद्ध्वान्वतप्यन्त धृतराष्ट्रात्मजास्तदा॥ 1-151-2(6877)
ततः संवत्सरस्यान्ते यौवराज्याय पार्थिव।
स्थापितो धृतराष्ट्रेण पाण्डुपुत्रो युधिष्ठिरः॥ 1-151-3(6878)
ततोऽदीर्घेण कालेन कुन्तीपुत्रो युधिष्ठिरः।
पितुरन्तर्दधे कीर्तिं शीलवृत्तसमाधिभिः॥ 1-151-4(6879)
असियुद्धे गदायुद्धे रथयुद्धे च पाण्डवः।
संकर्षणादशिक्षद्वै शश्वच्छिक्षां वृकोदरः॥ 1-151-5(6880)
समाप्तशिक्षो भीमस्तु द्युमत्सेनसमो बले।
पराक्रमेण संपन्नो भ्रातॄणामचरद्वशे॥ 1-151-6(6881)
प्रगाढदृढमुष्टित्वे लाघवे वेधने तथा।
क्षुरनाराचभल्लानां विपाठानां च तत्त्ववित्॥ 1-151-7(6882)
ऋजुवक्रविशालानां प्रयोक्ता फाल्गुनोऽभवत्।
लाघवे सौष्ठवे चैव नान्यः कश्चन विद्यते॥ 1-151-8(6883)
बीभत्सुसदृशो लोक इति द्रोणो व्यवस्थितः।
ततोऽब्रवीद्गुडाकेशं द्रोणः कौरवसंसदि॥ 1-151-9(6884)
अगस्त्यस्य धनुर्वेदे शिष्यो मम गुरुः पुरा।
अग्निवेश्य इति ख्यातस्तस्य शिष्योऽस्मि भारत॥ 1-151-10(6885)
तीर्थात्तीर्थं गमयितुमहमेतत्समुद्यतः।
तपसा यन्मया प्राप्तममोघमशनिप्रभम्॥ 1-151-11(6886)
अस्त्रं ब्रह्मशिरो नाम यद्दहेत्पृथिवीमपि।
ददता गुरुणा चोक्तं न मनुष्येष्विदंत्वया॥ 1-151-12(6887)
भारद्वाज विमोक्तव्यमल्पवीर्येषु संयुगे।
यद्यदन्तर्हितं भूतं किंचिद्युद्ध्येत्त्वया सह॥ 1-151-13(6888)
महातेजस्त्वमेतेन हन्याः शस्त्रेण संयुगे।
त्वया प्राप्तमिदं वीर दिव्यं नान्योऽर्हति त्विदम्॥ 1-151-14(6889)
समयस्तु त्वया रक्ष्यो मुनिसृष्टो विशांपते।
आचार्यदक्षिणां देहि ज्ञातिग्रामस्य पश्यतः॥ 1-151-15(6890)
ददानीति प्रतिज्ञाते फाल्गुनेनाब्रवीद्गुरुः।
युद्धेऽहं प्रतियोद्धव्यो युध्यमानस्त्वयाऽनघ॥ 1-151-16(6891)
तथेति च प्रतिज्ञाय द्रोणाय कुरुपुङ्गवः।
उपसंगृह्य चरणावुपतस्थे विनीतवत्॥ 1-151-17(6892)
द्रोणो जगाद वचनं समालिङ्ग्य तु फाल्गुनम्।
यन्मयोक्तं पुरा पार्थ तव लोके नरं क्वचित्॥ 1-151-18(6893)
सदृशं कारये नैव सर्वप्रहरणे युधि।
तत्कृतं च मया सम्यक्तव तुल्यो न वर्तते॥ 1-151-19(6894)
देवा युधि न शक्तास्त्वां योद्धुं दैत्या न दानवाः।
नाहं त्वत्तो विशिष्टोऽस्मि किं पुनर्मानवा रणे॥ 1-151-20(6895)
एकस्तवाधिको लोके यो हि वृष्णिकुलोद्भवः।
कृष्णः कमलपत्राक्षः कंसकालियसूदनः॥ 1-151-21(6896)
स जेता सर्वलोकानां सर्वप्रहरणायुधः।
नैतावता ते पार्थाहं भवाम्यनृतवागिह॥ 1-151-22(6897)
तदधीनं जगत्सर्वं तत्प्रलीनं तदुद्भवम्।
तत्पदं न विजानन्ति ब्रह्मेशानादयोऽपि वा॥ 1-151-23(6898)
तन्नाभिप्रभवो ब्रह्मा सर्वभूतानि निर्ममे।
स एव कर्ता भोक्ता च संहर्ता च जगन्मयम्॥ 1-151-24(6899)
स एव भूतं भव्यं च भवच्च पुरुषः परः।
नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः॥ 1-151-25(6900)
प्रादुर्भवति योगात्मा पालनार्थं स लीलया।
तत्तुल्यो हि न जायेत न जातो न जनिष्यते॥ 1-151-26(6901)
स हि मातुलजोऽभूत्ते चराचरगुरुः पिता।
को हि तं जेतुमीहेत जानन्नात्महितं नरः॥ 1-151-27(6902)
श्यालश्च ते सखा चासौ तस्य त्वं प्राणवल्लभः।
स्नेहमभ्यधिकं तस्य तव सख्यमवस्थितम्॥ 1-151-28(6903)
न तेन भवतो युद्धं भविता नर्मतोऽपि वा।
अपिचार्थे तव पुरा शक्रेण किल चोदितः॥ 1-151-29(6904)
गोकुले वर्धमानस्तु नन्दगोपस्य कारणात्।
ममांशः पाण्डवो लोके पृथिव्यां पुरुषोत्तमः॥ 1-151-30(6905)
कौन्तेयावरजः श्रीमानर्जुनो नाम वीर्यवान्।
भुवो भारापहरणे साहाय्यं ते करिष्यति॥ 1-151-31(6906)
तदर्थमभयं देहि पाहि चास्मत्कृते प्रभो।
इत्युक्तः पुण्डरीकाक्षस्तदा शक्रेण फल्गुन॥ 1-151-32(6907)
तमुवाच ततः श्रीमाञ्शङ्खचक्रगदाधरः।
जानामि पाण्डवे वंशे जातं पार्थं पितृष्वसुः॥ 1-151-33(6908)
पुत्रं परमधर्मिष्ठं सर्वशस्त्रभृतां वरम्।
पालयामि त्वदंशं तं सर्वलोकमहाभुजम्॥ 1-151-34(6909)
आवयोः सख्यसदृशं न च लोके भविष्यति।
यस्तद्भक्तः समद्भक्तो यस्तं द्वेष्टि स मामपि॥ 1-151-35(6910)
यन्मे वित्तं तु तत्तस्य तं विनाहं न जीवये।
इति पार्थ पुरा शक्रमाह सर्वेश्वरो हरिः॥ 1-151-36(6911)
तस्मात्तवापि सदृशस्तं विनाभ्यधिकः पुमान्।
न चेह भविता लोके तमेव शरणं व्रज॥ 1-151-37(6912)
शरण्यः सर्वभूतानां देवदेवो जनार्दनः॥' 1-151-38(6913)
वैशम्पायन उवाच। 1-151-39x(895)
तथेति च प्रतिज्ञाय द्रोणाय कुरुपुङ्गवः।
उपसंगृह्य चरणौ युधिष्ठिरवशोऽभवत्॥ 1-151-39(6914)
स्वभावादगमच्छब्दो महीं सागरमेखलाम्।
अर्जुनस्य समो लोके नास्ति कश्चिद्धनुर्धरः॥ 1-151-40(6915)
गदायुद्धेऽसियुद्धे च रथयुद्धे च पाण्डवः।
पारगश्च धनुर्युद्धे बभूवाथ धनञ्जयः॥ 1-151-41(6916)
नीतिमान्सकलां नीतिं विबुधाधिपतेस्तदा।
`अस्त्रे शस्त्रे च शास्त्रे च रथनागाश्वकर्मणि।'
अवाप्य सहदेवोऽपि भ्रातॄणां ववृते वशे॥ 1-151-42(6917)
द्रोणेनैवं विनीतश्च भ्रातॄणां नकुलः प्रियः।
चित्रयोधी समाख्यातो बभूवातिरथोदितः॥ 1-151-43(6918)
त्रिवर्षकृतयज्ञस्तु गन्धर्वाणामुपप्लवे।
अर्जुनप्रमुखैः पार्थैः सौवीरः समरे हतः॥ 1-151-44(6919)
न शशाक वशे कर्तुं यं पाण्डुरपि वीर्यवान्।
सोऽर्जुनेन वशं नीतो राजासीद्यवनाधिपः॥ 1-151-45(6920)
अतीव बलसंपन्नः सदा मानि कुरून्प्रति।
विपुलो नाम सौवीरः शस्तः पार्थेन धीमता॥ 1-151-46(6921)
दत्तामित्र इति ख्यातं सङ्ग्रामे कृतनिश्चयम्।
सुमित्रं नाम सौवीरमर्जुनोऽदमयच्छरैः॥ 1-151-47(6922)
भीमसेनसहायश्च रथानामयुतं च सः।
अर्जुनः समरे प्राच्यान्सर्वानेकरथोऽजयत्॥ 1-151-48(6923)
तथैवैकरथो गत्वा दक्षिणामजयद्दिशम्।
धनौघं प्रापयामास कुरुराष्ट्रं धनञ्जयः॥ 1-151-49(6924)
`यतः पञ्चदशे वर्षे सर्वमेतच्चकार सः।
तं दृष्ट्वा धार्तराष्ट्राणां ततो भयमजायत॥ 1-151-50(6925)
यः सर्वान्धृतराष्ट्रस्य पुत्रान्विप्रचकार ह।
भीमसेनो महाबाहुर्बलाद्बलवतां वरः॥ 1-151-51(6926)
अदुष्टभावं तं दोषैर्जगृहुर्दोषबुद्धयः।
धार्तराष्ट्रास्तथा सर्वे भयाद्भीमस्य कर्मणा॥ 1-151-52(6927)
तं दृष्ट्वा कर्मभिः पार्थान्सर्वानागतलक्षणान्।
बलाद्बहुगुणांस्तेभ्यो बिभियुर्दोषबुद्धयः॥' 1-151-53(6928)
एवं सर्वे महात्मानः पाण्डवा मनुजोत्तमाः।
परराष्ट्राणि निर्जित्य स्वराष्ट्रं ववृधुः पुरा॥ 1-151-54(6929)
ततो बलमतिख्यातं विज्ञाय दृढधन्विनाम्।
दूषितः सहसा भावो धृतराष्ट्रस्य पाण्डुषु।
स चिन्तापरमो राजा न निद्रामलभन्निशि॥ ॥ 1-151-55(6930)

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि एकपञ्चाशदधिकशततमोऽध्यायः॥ 151 ॥

Mahabharata - Adi Parva - Chapter Footnotes
1-151-9 गुडाका निद्रा तस्या ईशमर्जुनं जितनिद्रं, गुडा स्नुही तद्वत्केशा यस्य॥ 1-151-11 तीर्थात्पात्रान्तरं गमयितुं संप्रदायाविच्छेदार्थमित्यर्थः॥ 1-151-14 त्वया ग्राहान्मां मोचयता प्राप्तं प्रागेव॥ 1-151-28 तस्य त्वयीति शेषः। तव तस्मिन्निति शेषः॥ 1-151-35 तस्य मम च॥ 1-151-42 विबुधाधिपतेरुद्धवात्॥ 1-151-43 विनीतः शिक्षितः। अतिरथेषूदितः ख्यातः॥ 1-151-44 गन्धर्वोपप्लवेऽपि यस्य सौवीरस्य यज्ञो न विप्लुत इत्ययोध्यत्वमुक्तम्॥ 1-151-46 शस्तो हिंसितः॥ 1-151-53 बिभियुः बिभ्युः॥ 1-151-54 ववृधुर्वर्धितवन्तः॥ एकपञ्चाशदधिकशततमोऽध्यायः॥ 151 ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.